|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.91. अध्यायः 091
Mahabharata - Karna Parva - Chapter Topics
रणाय कर्णार्जुनयोः समागमः॥ 1 ॥ तदवलोकनाय दिवि देवगन्धर्वादीनां समागमः॥ 2 ॥ देवासुरादीनां कर्णार्जु नसमाश्रयणेन द्वैधीभावः॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-91-0x(5053)(59463)
वृषसेनं हतं दृष्ट्वा क्रोधामर्षसमन्वितः।
पुत्रशोकोद्भवं वारि नेत्राभ्यां समवासृजत्॥ 8-91-1(59464)
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपुम्।
युद्धायामर्पताम्राक्षः समाहूय धनञ्जयम्॥ 8-91-2(59465)
तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारितौ।
समेतौ ददृशुस्तत्र द्वाविवार्कौ समुद्गतौ॥ 8-91-3(59466)
श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ।
शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि।
`रथौ चतुर्भिर्जलदैर्भगमित्राविवाम्बरे'॥ 8-91-4(59467)
तौ दृष्ट्वा विस्मयं जग्मुः सर्वसैन्यानि मारिष।
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव॥ 8-91-5(59468)
रथज्यातलनिर्हादैर्बाणशङ्खरवैस्तथा।
तौ रथावभ्यधावन्त क्षत्रियाः सर्व एव हि॥ 8-91-6(59469)
ध्वजावालोक्य वीराणां विस्मयः समपद्यत।
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः॥ 8-91-7(59470)
तौ रथौ सम्प्रसक्तौ तु दृष्ट्वा भारत पार्थिवाः।
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान्॥ 8-91-8(59471)
श्रुत्वा तयोर्द्वैरथं च तत्र योधाः सहस्रशः।
चक्रुर्बाहुस्वनांश्चैव तथा बाणरवं महत्॥ 8-91-9(59472)
आजघ्नुः कुरवस्तत्र वादित्राणि समन्ततः।
राधेयमभितो दध्मुः शङ्खाञ्शतसहस्रशः॥ 8-91-10(59473)
तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम्।
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन्॥ 8-91-11(59474)
क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्।
बाहुशब्दैश्च शूराणां कर्णार्जुनसमागमे॥ 8-91-12(59475)
तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ।
प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ॥ 8-91-13(59476)
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभितौ।
तूणीरवसम्पन्नौ द्वावप्येतौ सुदर्शनौ॥ 8-91-14(59477)
रक्तचन्दनदिग्धाङ्गौ समदौ गोवृषाविव।
चापविद्युद्ध्वजोपेतौ शस्त्रसम्पत्तियोधिनौ॥ 8-91-15(59478)
चामरव्यजनोपैतौ श्वेतच्छत्रोपशोभितौ।
कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ॥ 8-91-16(59479)
सिंहस्कन्धौ दीर्घभुजौ रक्ताक्षौ हेममालिनौ।
सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ।
अन्योन्यवधमिच्छन्तावन्योन्यजयकाङ्क्षिणौ॥ 8-91-17(59480)
अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव।
प्रभिन्नाविव मातङ्गौ सुसंरब्धाविवाचलौ॥ 8-91-18(59481)
आशीविषशिशुप्रख्यौ यमकालान्तकोपमौ।
इन्द्रवृत्राविव क्रुद्धौ सूर्यचन्द्रसमप्रभौ॥ 8-91-19(59482)
महाग्रहाविव क्रुद्धौ युगान्ताय समुत्थितौ।
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः॥ 8-91-20(59483)
यदृच्छया समायातौ सूर्याचन्द्रमसौ यथा।
बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि॥ 8-91-21(59484)
तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव धिष्ठितौ।
बभूव परमो हर्षस्तावकानां विशाम्पते॥ 8-91-22(59485)
संशयः सर्वभूतानां विजये समपद्यत।
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ॥ 8-91-23(59486)
उभौ वरायुधधरावुभौ रणकृतश्रमौ।
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम्॥ 8-91-24(59487)
उभौ विश्रुतकर्माणौ पौरुषेण बलेन च।
उभौ च सदृशौ युद्धे शम्बरामरराजयोः॥ 8-91-25(59488)
कार्तवीर्यसमौ चोभावुभौ दाशरथेः समौ।
विष्णुवीर्यसमौ चोभावुभौ भवसमौ युधि॥ 8-91-26(59489)
उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ।
सारथिप्रवरौ चापि उभौ मद्रजनार्दनौ॥ 8-91-27(59490)
ततो दृष्ट्वा महाराज राजमानौ महारथौ।
सिद्धचारणसङ्घानां विस्मयः समपद्यत॥ 8-91-28(59491)
धार्तराष्ट्रास्ततस्तूर्णं सबला भरतर्षभ।
परिवव्रुर्महात्मानं कर्णमाहवशोभिनम्॥ 8-91-29(59492)
तथैव पाण्डवा दृष्ट्वा धृष्टद्युम्नपुरोगमाः।
यमौ च चेकितानश्च प्रहृष्टाश्च प्रभद्रकाः॥ 8-91-30(59493)
नानादेश्याश्च ये शूराः शिष्टा युद्धाभिनन्दिनः।
ते सर्वे सहिता हृष्टाः परिवव्रुर्धनञ्जयम्॥ 8-91-31(59494)
रिरक्षिषन्तः शथ्रुघ्नाः पत्त्यश्वरथकुञ्जराः।
धनञ्जयस्य विजये धृताः कर्णवधेऽपि च॥ 8-91-32(59495)
तथैव तावकाः सर्वे यत्ताः सेनाप्रहारिणः।
दुर्योधनमुखा राजन्कर्णं जुगुपुराहवे॥ 8-91-33(59496)
तावकानां रणे कर्णो ग्लहो ह्यासीद्विशाम्पते।
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवत्तदा॥ 8-91-34(59497)
तयोस्तु सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्युधि।
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ॥ 8-91-35(59498)
ताभ्यां द्यतं समासक्तं विजयायेतराय वा।
अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि॥ 8-91-36(59499)
तौ तु स्थितौ महाराज समरे युद्धशालिनौ।
अन्योन्यं प्रतिसंरब्धावन्योन्यवधकाङ्क्षिणौ॥ 8-91-37(59500)
तावुमौ प्रजिहीर्षन्ताविन्द्रवृत्राविव प्रभो।
भीमरूपधरावास्तां महाधूमाविव ग्रहौ॥ 8-91-38(59501)
ततोऽन्तरिक्षे सञ्जज्ञे विवादो भरतर्षभ।
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे॥ 8-91-39(59502)
व्याश्रयन्त द्विधा भिन्नाः सर्वे लोकास्तु मारिष।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः।
प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे॥ 8-91-40(59503)
द्यौरासीत्कर्णपक्षेऽत्र सनक्षत्रा विशाम्पते।
भूर्विशाला पार्थमाता पुत्रस्य जयकाङ्क्षिणी॥ 8-91-41(59504)
सागराश्चैव गिरयः सरितश्च नरोत्तम।
महीजा जलजाश्चैव व्याश्रयन्त किरीटिनम्॥ 8-91-42(59505)
असुरा यातुधानाश्च गुह्यकाश्च परन्तप।
कर्णः समभवद्यत्र खेचराणि वयांसि च॥ 8-91-43(59506)
रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः।
सोपवेदोपनिषदो व्याश्रयन्त किरीटिनम्॥ 8-91-44(59507)
वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः।
महीवियज्जलचराः काद्रवेयाश्च सान्वयाः।
विषवन्तो महानागा वेगिनश्चार्जुनेऽभवन्॥ 8-91-45(59508)
ऐरावताः सौरभेया वैशालेयाश्च भोगिनः।
एतेऽभवन्नर्जुनस्य पापाः सर्पाश्च कर्णतः॥ 8-91-46(59509)
ईहामृगा व्यालमृगा मङ्गला मृगपक्षिणः।
मङ्गलाः पशवश्चैव सिंहव्याघ्रास्तथैव च।
पार्थस्य विजये राजन्सर्व एव समाश्रिताः॥ 8-91-47(59510)
वसवो मरुतः साध्या रुद्रा देवाश्विनावपि।
अग्नी रुद्रश्च सोमश्च पन्नगाश्च दिशो दश।
कर्णतः समपद्यन्त श्वसृगालवयांसि च॥ 8-91-48(59511)
वसवश्च महेन्द्रेण मरुतश्च सहाग्निना।
धनञ्जयस्य ते वर्गा आदित्याः कर्णतोऽभवन्॥ 8-91-49(59512)
देवताः पितृभिः सार्धमृषिभिश्च परन्तप।
तुम्बुरुप्रमुखाः सर्वे गन्धर्वा भरतर्षभ।
यमौ वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः॥ 8-91-50(59513)
देवर्षिब्रह्मर्षिगणाः सर्वे च खचराश्च ये
प्रालेयाः सहमौनेयाः शुभाश्चाप्सरसां गणाः॥ 8-91-51(59514)
सहाप्सरोभिः शुभ्राभिर्देवदूताश्च गुह्यकाः।
किरीटिनं संश्रिताः स्म पुण्यगन्धा मनोरमाः॥ 8-91-52(59515)
अमनोज्ञाश्च ये गन्धास्ते सर्वे कर्णमाश्रिताः।
विपरीतान्यनिष्टानि भवन्ति विनशिष्यताम्॥ 8-91-53(59516)
ये त्वन्तकाले पुरुषं विपरीतमुपाश्रितम्।
प्रविशन्ति नरं क्षिप्रं मृत्युकालेऽभ्युपागते।
ते भावाः सहिताः कर्णं प्रविष्टाः सूतनन्दनम्॥ 8-91-54(59517)
ओजस्तेजश्च सिद्धिश्च प्रहर्षः सत्यविक्रमौ।
मनस्तुष्टिर्जयश्चापि तथाऽऽनन्दो नृपोत्तम॥ 8-91-55(59518)
ईदृशार्नि नरव्याघ् तस्मिन्सङ्ग्रामसागरे।
निमित्तानि च शुभ्राणि विविशुर्जिष्णुमाहवे॥ 8-91-56(59519)
ऋषयो ब्राह्मणैः सार्धमभजन्त किरीटिनम्॥ 8-91-57(59520)
ततो देवगणैः सार्धं सिद्धाश्च सह चारणैः।
द्विधा भूता महाराज व्याश्रयन्त नरोत्तमौ॥ 8-91-58(59521)
विमानानि विचित्राणि गुणवन्ति च सर्वशः।
समारुह्य समाजग्मुर्द्वैरथं कर्णपार्थयोः।
अन्तरिक्षे महाराज देवगन्धर्वराक्षसाः॥ 8-91-59(59522)
एवं सर्वेषु भूतेषु द्विधा भूतेषु भारत।
आशंसमानेषु जयं राधेयस्यार्जुनस्य च।
विमानायुतसम्बाधमाकाशमभवत्तदा॥ 8-91-60(59523)
ईहामृगव्यालमृगैर्दिपाश्वरथपङ्क्तिभिः।
ऊह्यमानाः परे मेघैर्वायुना च मनीषिणः।
दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम्॥ 8-91-61(59524)
देवदानवगन्धर्वा नागयक्षपतत्रिणः।
महर्षयो देवगणाः पितरश्च स्वधाभुजः॥ 8-91-62(59525)
तपोविद्यौषधीसिदधा नानारूपाम्बरत्विषः।
अन्तरिक्षे महाराज विवदन्तोऽवतस्थिरे॥ 8-91-63(59526)
ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च।
आस्थितो यानमाकाशे दिव्यं तेजः समागताः॥ 8-91-64(59527)
ततः प्रजापतिस्तूर्णमाजगाम महामते।
द्वैरथं युधि तं द्रुष्टं कर्णपाण्डवयोस्तदा॥ 8-91-65(59528)
विजित्य कर्णः स्विदिमां वसुन्धरा--
मथार्जुनः स्वित्प्रतिपद्यतेऽखिलाम्।
इतीश्वरस्यापि बभूव संशयः
प्रजापतेः प्रेक्ष्य तयोर्महद्बलम्॥ ॥ 8-91-66(59529)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकनवतितमोऽध्यायः॥ 91 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|